अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥१॥
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ॥२॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः॥३॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥४॥
चिन्मयं व्यापि यत्सर्व त्रैलोक्यं सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः॥५॥
सर्व-श्रुति-शिरोरत्न- विराजित-पदाम्बुजः।
वेदान्ताम्बुज-सूर्यो यः तस्मै श्री गुरवे नमः॥६॥
चैतन्यः शाश्वतः शान्तः व्योमातीतो निस्अनः।
बिन्दु-नाद-कलातीतः तस्मै श्री गुरवे नमः ॥७॥
ज्ञान-शक्ति-समारूढः तत्त्वमाला-विभूषितः।
भुक्ति-मुक्ति-प्रदाता च तस्मै श्री गुरवे नमः॥८॥
अनेक-जन्म-सम्प्राप्त- कर्म-बन्ध-विदाहिने।
आत्मज्ञान-प्रदानेन तस्मै श्री गुरवे नमः॥९॥
शोषणं भव-सिन्धोश्च ज्ञापनं सार-सम्पदः ।
गुरोः पादोदकं सम्यक् तस्मै श्री गुरवे नमः ॥ १० ॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।
तत्त्वज्ञानात् परं नास्ति तस्मै श्री गुरवे नमः॥११॥
मन्नाथः श्रीजगन्नाथः मद्गुरुः श्री जगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्री गुरवे नमः ॥ १२॥
गुरुरादिरनादिश्च गुरुः परमदैवतम्।
गुरोः परतरं नास्ति तस्मै श्री गुरवे नमः॥ १३॥
त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ १४॥