सदाशिव-समारम्भां शङ्कराचार्य-मध्यमाम्।
अस्मदाचार्य-पर्यन्तां वन्दे गुरु-परम्पराम्॥१॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र।
येन त्वया भारततैलपूर्णः प्रज्चालितो ज्ञानमयः प्रदीपः ॥२॥
श्रुति-स्मृति-पुराणानाम् आलयं करुणालयम्।
नमामि भगवत्पाद- शङ्करं लोकशङ्करम्॥३॥
शङ्करं शङ्कराचार्य केशवं बादरायणम्।
सूत्र-भाष्य-कृती वन्दे भगवन्तौ पुनः पुनः॥४॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः॥५॥
श्रीचिन्मय-यतीशस्य गुरुं वन्दे तपोवनम्।
तं हिमवद्-विभूतिं वै ज्ञान-वैराग्य-रूपिणम्॥६॥
समस्त-जन-कल्याणे निरतं करुणामयम् ।
नमामि चिन्मयं देवं सद्गुरुं ब्रह्मविद्वरम्॥७॥