Loading...

Transliteration (IAST)

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिà¤à¥à¤  नरशार्दूल कर्त्तव्यं दैवमाà¤à¥à¤¨à¤¿à¤•à¤®à¥ ॥१॥ उत्तिà¤à¥à¤ à¥‹à¤¤à¥à¤¤à¤¿à¤à¥à¤  गोविन्द उत्तिà¤à¥à¤  गरुडध्वज । उत्तिà¤à¥à¤  कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥ मातस्समस्तजगतां मधुकैटभारेः वक्à¤à¥‹à¤µà¤¿à¤à¤¾à¤°à¤¿à¤£à¤¿ मनोà¤à¤°à¤¦à¤¿à¤µà¥à¤¯à¤®à¥‚र्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृशशैलनाथदयिते दयानिधे ॥४॥ अत्र्यादिसप्तऋà¤à¤¯à¤¸à¥à¤¸à¤®à¥à¤ªà¤¾à¤¸à¥à¤¯ सन्ध्यां आकाशसिन्धुकमलानि मनोà¤à¤°à¤¾à¤£à¤¿ । आदाय पादयुगमर्चयितुं प्रपन्नाः शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥५॥ पञ्चाननाब्जभवà¤à¤£à¥à¤®à¥à¤–वासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाà¤à¤¾à¤ªà¤¤à¤¿à¤ƒ पठति वासरशुद्धिमारात् शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥६॥ ईà¤à¤¤à¥à¤ªà¥à¤°à¤«à¥à¤²à¥à¤²à¤¸à¤°à¤¸à¥€à¤°à¥à¤à¤¨à¤¾à¤°à¤¿à¤•à¥‡à¤² पूगद्रुमादिसुमनोà¤à¤°à¤ªà¤¾à¤²à¤¿à¤•à¤¾à¤¨à¤¾à¤®à¥ । आवाति मन्दमनिलस्सठदिव्यगन्धैः शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिà¤à¥à¤Ÿà¤•à¤¦à¤²à¥€à¤«à¤²à¤ªà¤¾à¤¯à¤¸à¤¾à¤¨à¤¿ । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥८॥ तन्त्रीप्रकर्à¤à¤®à¤§à¥à¤°à¤¸à¥à¤µà¤¨à¤¯à¤¾ विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाà¤à¤¾à¤¸à¤®à¤—्रमसकृत्करचाररम्यं शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥९॥ भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीतनिनदैस्सठसेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥१०॥ योà¤à¤¾à¤—णेन वरदध्नि विमथ्यमाने घोà¤à¤¾à¤²à¤¯à¥‡à¤à¥ दधिमन्थनतीव्रघोà¤à¤¾à¤ƒ । रोà¤à¤¾à¤¤à¥à¤•à¤²à¤¿à¤‚ विदधते ककुभश्च कुम्भाः शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥११॥ पद्मेशमित्रशतपत्रगतालिवर्गाः à¤à¤°à¥à¤¤à¥à¤‚ श्रियं कुवलयस्य निजाङ्गलक्à¤à¥à¤®à¥à¤¯à¤¾ । भेरीनिनादमिव बिभ्रति तीव्रनादं शेà¤à¤¾à¤¦à¥à¤°à¤¿à¤¶à¥‡à¤–रविभो तव सुप्रभातम् ॥१२॥ श्रीमन्नभीà¤à¥à¤Ÿà¤µà¤°à¤¦à¤¾à¤–िललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृà¤à¤­à¥à¤œà¤¾à¤¨à¥à¤¤à¤°à¤¦à¤¿à¤µà¥à¤¯à¤®à¥‚र्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥ श्रीस्वामिपुà¤à¥à¤•à¤°à¤¿à¤£à¤¿à¤•à¤¾à¤ªà¥à¤²à¤µà¤¨à¤¿à¤°à¥à¤®à¤²à¤¾à¤™à¥à¤—ाः श्रेयोऽर्थिनो à¤à¤°à¤µà¤¿à¤°à¤¿à¤žà¥à¤šà¤¸à¤¨à¤¨à¥à¤¦à¤¨à¤¾à¤¦à¥à¤¯à¤¾à¤ƒ । द्वारे वसन्ति वरवेत्रà¤à¤¤à¥‹à¤¤à¥à¤¤à¤®à¤¾à¤™à¥à¤—ाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥ श्रीशेà¤à¤¶à¥ˆà¤² गरुडाचलवेङ्कटाद्रि नारायणाद्रि वृà¤à¤­à¤¾à¤¦à¥à¤°à¤¿à¤µà¥ƒà¤à¤¾à¤¦à¥à¤°à¤¿ मुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥ सेवापराश्शिवसुरेशकृशानुधर्म रक्à¤à¥‹à¤½à¤®à¥à¤¬à¥à¤¨à¤¾à¤¥ पवमान धनादिनाथाः । बद्धाञ्जलि प्रविलसन्निजशीर्ठदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥ धाटीà¤à¥ ते विà¤à¤—राज मृगाधिराज नागाधिराज गजराज à¤à¤¯à¤¾à¤§à¤¿à¤°à¤¾à¤œà¤¾à¤ƒ । स्वस्वाधिकार मà¤à¤¿à¤®à¤¾à¤§à¤¿à¤•à¤®à¤°à¥à¤¥à¤¯à¤¨à¥à¤¤à¥‡ श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥ सूर्येन्दु भौम बुध वाक्पति काव्यसौरि स्वर्भानु केतु दिविà¤à¤¤à¥à¤ªà¤°à¤¿à¤à¤¤à¥à¤ªà¥à¤°à¤§à¤¾à¤¨à¤¾à¤ƒ । त्वद्दास दास चरमावधि दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥ त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ठनिजान्तरङ्गाः । कल्पागमाकलनयाकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥ त्वद्गोपुराग्रशिखराणि निरीक्à¤à¤®à¤¾à¤£à¤¾à¤ƒ स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुà¤à¥à¤¯à¤­à¥à¤µà¤¨à¥‡ मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥ श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥ श्रीपद्मनाभ पुरुà¤à¥‹à¤¤à¥à¤¤à¤® वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिà¤à¥à¤¨ शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥ कन्दर्पदर्पà¤à¤° सुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुठकुटमल लोलदृà¤à¥à¤Ÿà¥‡ । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥ मीनाकृते कमठ कोल नृसिंठवर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र। शेà¤à¤¾à¤‚शराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥ एला लवङ्ग घनसारसुगन्धितीर्थं दिव्यं वियत्सरिति à¤à¥‡à¤®à¤˜à¤Ÿà¥‡à¤à¥ पूर्णम् । धृत्वाऽद्य वैदिक शिखामणयः प्रà¤à¥ƒà¤à¥à¤Ÿà¤¾à¤ƒ तिà¤à¥à¤ à¤¨à¥à¤¤à¤¿ वेङ्कटपते तव सुप्रभातम् ॥२५॥ भास्वानुदेति विकचानि सरोरुà¤à¤¾à¤£à¤¿ सम्पूरयन्ति निनदैः ककुभो विà¤à¤™à¥à¤—ाः । श्रीवैà¤à¥à¤£à¤µà¤¾à¤¸à¥à¤¸à¤¤à¤¤à¤®à¤°à¥à¤¥à¤¿à¤¤à¤®à¤™à¥à¤—लास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥ ब्रà¤à¥à¤®à¤¾à¤¦à¤¯à¤¸à¥à¤¸à¥à¤°à¤µà¤°à¤¾à¤¸à¥à¤¸à¤®à¤à¤°à¥à¤à¤¯à¤¸à¥à¤¤à¥‡ सन्तस्सनन्दनमुखास्तवथ योगिवर्याः । धामान्तिके तव à¤à¤¿ मङ्गलवस्तुà¤à¤¸à¥à¤¤à¤¾à¤ƒ श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥ लक्à¤à¥à¤®à¥€à¤¨à¤¿à¤µà¤¾à¤¸ निरवद्यगुणैकसिन्धो संसार सागर समुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥ इत्थं वृà¤à¤¾à¤šà¤²à¤ªà¤¤à¥‡à¤°à¤¿à¤ सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेà¤à¤¾à¤‚ प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥

Venkatesa Suprabhatam

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥१॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥ मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृशशैलनाथदयिते दयानिधे ॥४॥ अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥ पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल पूगद्रुमादिसुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥ तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥ भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीतनिनदैस्सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥११॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥ श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥ श्रीशेषशैल गरुडाचलवेङ्कटाद्रि नारायणाद्रि वृषभाद्रिवृषाद्रि मुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥ सेवापराश्शिवसुरेशकृशानुधर्म रक्षोऽम्बुनाथ पवमान धनादिनाथाः । बद्धाञ्जलि प्रविलसन्निजशीर्ष देशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥ धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकार महिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥ सूर्येन्दु भौम बुध वाक्पति काव्यसौरि स्वर्भानु केतु दिविषत्परिषत्प्रधानाः । त्वद्दास दास चरमावधि दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥ त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः । कल्पागमाकलनयाकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥ श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥ श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिह्न शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥ कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुटमल लोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥ मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र। शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥ एला लवङ्ग घनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥ ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दनमुखास्तवथ योगिवर्याः । धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥ लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसार सागर समुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥ इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥