Loading...

Transliteration (IAST)

Invocation ॐ श्रीगणेशाय नमः । ॐ नमो नारायणाय । अङ्गन्यासः – ॐ ॐ नमः पादयोः । ॐ नं नमः जानुनोः । ॐ मों नमः ऊर्वोः । ॐ नां नमः उदरे । ॐ रां नमः à¤à¥ƒà¤¦à¤¿ । ॐ यं नमः उरसि । ॐ णां नमः मुखे । ॐ यं नमः शिरसि ॥ करन्यासः ॐ ॐ नमः दक्à¤à¤¿à¤£à¤¤à¤°à¥à¤œà¤¨à¥à¤¯à¤¾à¤®à¥ । ॐ नं नमः दक्à¤à¤¿à¤£à¤®à¤§à¥à¤¯à¤®à¤¾à¤¯à¤¾à¤®à¥ । ॐ मों नमः दक्à¤à¤¿à¤£à¤¾à¤¨à¤¾à¤®à¤¿à¤•à¤¾à¤¯à¤¾à¤®à¥ । ॐ भं नमः दक्à¤à¤¿à¤£à¤•à¤¨à¤¿à¤à¥à¤ à¤¿à¤•à¤¾à¤¯à¤¾à¤®à¥ । ॐ गं नमः वामकनिà¤à¥à¤ à¤¿à¤•à¤¾à¤¯à¤¾à¤®à¥ । ॐ वं नमः वामानामिकायाम् । ॐ तें नमः वाममध्यमायाम् । ॐ वां नमः वामतर्जन्याम् । ॐ सुं नमः दक्à¤à¤¿à¤£à¤¾à¤‚गुà¤à¥à¤ à¥‹à¤°à¥à¤§à¥à¤µà¤ªà¤°à¥à¤µà¤£à¤¿ । ॐ दें नमः दक्à¤à¤¿à¤£à¤¾à¤‚गुà¤à¥à¤ à¤¾à¤¯ पर्वणि । ॐ वां नमः वामांगुà¤à¥à¤ à¥‹à¤°à¥à¤§à¥à¤µà¤ªà¤°à¥à¤µà¤£à¤¿ । ॐ यं नमः वामांगुà¤à¥à¤ à¤¾à¤¯ पर्वणि ॥ विà¤à¥à¤£à¥à¤à¤¡à¤•à¥à¤à¤°à¤¨à¥à¤¯à¤¾à¤¸à¤ƒ ॐ ॐ नमः à¤à¥ƒà¤¦à¤¯à¥‡ । ॐ विं नमः मूर्धनि । ॐ à¤à¤‚ नमः भ्रुवोर्मध्ये । ॐ णं नमः शिखायाम् । ॐ वें नमः नेत्रयोः । ॐ नं नमः सर्वसन्धिà¤à¥ । ॐ मः अस्त्राय फट् प्राच्याम् । ॐ मः अस्त्राय फट् आग्नेयाम् । ॐ मः अस्त्राय फट् दक्à¤à¤¿à¤£à¤¸à¥à¤¯à¤¾à¤®à¥ । ॐ मः अस्त्राय फट् नैरृत्ये । ॐ मः अस्त्राय फट् प्रतीच्याम् । ॐ मः अस्त्राय फट् वायव्ये । ॐ मः अस्त्राय फट् उदीच्याम् । ॐ मः अस्त्राय फट् ऐशान्याम् । ॐ मः अस्त्राय फट् ऊर्ध्वायाम् । ॐ मः अस्त्राय फट् अधरायाम् ॥ Narayana Kavacham अथ श्रीनारायणकवचम् । राजोवाच । यया गुप्तः सà¤à¤¸à¥à¤°à¤¾à¤•à¥à¤à¤ƒ सवाà¤à¤¾à¤¨à¥à¤°à¤¿à¤ªà¥à¤¸à¥ˆà¤¨à¤¿à¤•à¤¾à¤¨à¥ । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥ भगवंस्तन्ममाख्याà¤à¤¿ वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥ श्रीशुक उवाच । वृतः पुरोà¤à¤¿à¤¤à¤¸à¥à¤¤à¥à¤µà¤¾à¤à¥à¤Ÿà¥à¤°à¥‹ मà¤à¥‡à¤¨à¥à¤¦à¥à¤°à¤¾à¤¯à¤¾à¤¨à¥à¤ªà¥ƒà¤šà¥à¤›à¤¤à¥‡ । नारायणाख्यं वर्माठतदिà¤à¥ˆà¤•à¤®à¤¨à¤¾à¤ƒ श‍ृणु ॥ ३॥ विश्वरूप उवाच । धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥ नारायणमयं वर्म सन्नà¤à¥à¤¯à¥‡à¤¦à¥à¤­à¤¯ आगते । पादयोर्जानुनोरूर्वोरुदरे à¤à¥ƒà¤¦à¥à¤¯à¤¥à¥‹à¤°à¤¸à¤¿ ॥ ५॥ मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥ करन्यासं ततः कुर्याद्द्वादशाक्à¤à¤°à¤µà¤¿à¤¦à¥à¤¯à¤¯à¤¾ । प्रणवादियकारान्तमङ्गुल्यङ्गुà¤à¥à¤  पर्वसु ॥ ७॥ न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि । à¤à¤•à¤¾à¤°à¤‚ तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥ वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिà¤à¥ । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥ सविसर्गं फडन्तं तत् सर्वदिक्à¤à¥ विनिर्दिशेत् । ॐ विà¤à¥à¤£à¤µà¥‡ नम इति ॥ १०॥ आत्मानं परमं ध्यायेद्ध्येयं à¤à¤Ÿà¥à¤¶à¤•à¥à¤¤à¤¿à¤­à¤¿à¤°à¥à¤¯à¥à¤¤à¤®à¥ । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाà¤à¤°à¥‡à¤¤à¥ ॥ ११॥ NARAYANA KAVACHAM ॐ à¤à¤°à¤¿à¤°à¥à¤µà¤¿à¤¦à¤§à¥à¤¯à¤¾à¤¨à¥à¤®à¤® सर्वरक्à¤à¤¾à¤‚ न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृà¤à¥à¤ à¥‡ । दरारिचर्मासिगदेà¤à¥à¤šà¤¾à¤ª- पाशान्दधानोऽà¤à¥à¤Ÿà¤—ुणोऽà¤à¥à¤Ÿà¤¬à¤¾à¤à¥à¤ƒ ॥ १२॥ जलेà¤à¥ मां रक्à¤à¤¤à¥ मत्स्यमूर्ति- र्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेà¤à¥ मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥ दुर्गेà¤à¥à¤µà¤Ÿà¤µà¥à¤¯à¤¾à¤œà¤¿à¤®à¥à¤–ादिà¤à¥ प्रभुः पायान्नृसिंà¤à¥‹à¤½à¤¸à¥à¤°à¤¯à¥‚थपारिः । विमुञ्चतो यस्य मà¤à¤¾à¤Ÿà¥à¤Ÿà¤à¤¾à¤¸à¤‚ दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥ रक्à¤à¤¤à¥à¤µà¤¸à¥Œ माध्वनि यज्ञकल्पः स्वदंà¤à¥à¤Ÿà¥à¤°à¤¯à¥‹à¤¨à¥à¤¨à¥€à¤¤à¤§à¤°à¥‹ वराà¤à¤ƒ । रामोऽद्रिकूटेà¤à¥à¤µà¤¥ विप्रवासे सलक्à¤à¥à¤®à¤£à¥‹à¤½à¤µà¥à¤¯à¤¾à¤¦à¥à¤­à¤°à¤¤à¤¾à¤—्रजोऽस्मान् ॥ १५॥ मामुग्रधर्मादखिलात्प्रमादा- न्नारायणः पातु नरश्च à¤à¤¾à¤¸à¤¾à¤¤à¥ । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥ सनत्कुमारोऽवतु कामदेवा- द्धयशीर्à¤à¤¾ मां पथि देवà¤à¥‡à¤²à¤¨à¤¾à¤¤à¥ । देवर्à¤à¤¿à¤µà¤°à¥à¤¯à¤ƒ पुरुà¤à¤¾à¤°à¥à¤šà¤¨à¤¾à¤¨à¥à¤¤à¤°à¤¾à¤¤à¥ कूर्मो à¤à¤°à¤¿à¤°à¥à¤®à¤¾à¤‚ निरयादशेà¤à¤¾à¤¤à¥ ॥ १७॥ धन्वन्तरिर्भगवान्पात्वपथ्या- द्द्वन्द्वाद्भयादृà¤à¤­à¥‹ निर्जितात्मा । यज्ञश्च लोकादवताञ्ज्जनान्ता- द्बलो गणात्क्रोधवशादà¤à¥€à¤¨à¥à¤¦à¥à¤°à¤ƒ ॥ १८॥ द्वैपायनो भगवानप्रबोधा- द्बुद्धस्तु पाखण्डगणप्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥ मां केशवो गदया प्रातरव्या- द्गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राà¤à¥à¤£ उदात्तशक्ति- र्मध्यन्दिने विà¤à¥à¤£à¥à¤°à¤°à¥€à¤¨à¥à¤¦à¥à¤°à¤ªà¤¾à¤£à¤¿à¤ƒ ॥ २०॥ देवोऽपराà¤à¥à¤¨à¥‡ मधुà¤à¥‹à¤—्रधन्वा सायं त्रिधामावतु माधवो माम् । दोà¤à¥‡ à¤à¥ƒà¤à¥€à¤•à¥‡à¤¶ उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥ श्रीवत्सधामापररात्र ईशः प्रत्यूठईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्à¤à¤‚ यथा वातसखो à¤à¥à¤¤à¤¾à¤¶à¤ƒ ॥ २३॥ गदेऽशनिस्पर्शनविस्फुलिङ्गे निà¤à¥à¤ªà¤¿à¤£à¥à¤¢à¤¿ निà¤à¥à¤ªà¤¿à¤£à¥à¤¢à¥à¤¯à¤œà¤¿à¤¤à¤ªà¥à¤°à¤¿à¤¯à¤¾à¤¸à¤¿ । कूà¤à¥à¤®à¤¾à¤£à¥à¤¡à¤µà¥ˆà¤¨à¤¾à¤¯à¤•à¤¯à¤•à¥à¤à¤°à¤•à¥à¤à¥‹- भूतग्रà¤à¤¾à¤‚श्चूर्णय चूर्णयारीन् ॥ २४॥ त्वं यातुधान प्रमथप्रेतमातृ- पिशाचविप्रग्रà¤à¤˜à¥‹à¤°à¤¦à¥ƒà¤à¥à¤Ÿà¥€à¤¨à¥ । दरेन्द्र विद्रावय कृà¤à¥à¤£à¤ªà¥‚रितो भीमस्वनोऽरेर्à¤à¥ƒà¤¦à¤¯à¤¾à¤¨à¤¿ कम्पयन् ॥ २५॥ त्वं तिग्मधारासिवरारिसैन्य- मीशप्रयुक्तो मम छिन्धि छिन्धि । चक्à¤à¥‚ंà¤à¤¿ चर्मञ्छतचन्द्र छादय द्विà¤à¤¾à¤®à¤˜à¥‹à¤¨à¤¾à¤‚ à¤à¤° पापचक्à¤à¥à¤à¤¾à¤®à¥ ॥ २६॥ यन्नो भयं ग्रà¤à¥‡à¤­à¥à¤¯à¥‹à¤½à¤­à¥‚त्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंà¤à¥à¤Ÿà¥à¤°à¤¿à¤­à¥à¤¯à¥‹ भूतेभ्योंऽà¤à¥‹à¤­à¥à¤¯ एव च ॥ २७॥ सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयान्तु सङ्क्à¤à¤¯à¤‚ सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः । रक्à¤à¤¤à¥à¤µà¤¶à¥‡à¤à¤•à¥ƒà¤šà¥à¤›à¥à¤°à¥‡à¤­à¥à¤¯à¥‹ विà¤à¥à¤µà¤•à¥à¤¸à¥‡à¤¨à¤ƒ स्वनामभिः ॥ २९ ॥ सर्वापद्भ्यो à¤à¤°à¥‡à¤°à¥à¤¨à¤¾à¤®à¤°à¥‚पयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान्पान्तु पार्à¤à¤¦à¤­à¥‚à¤à¤£à¤¾à¤ƒ ॥ ३०॥ यथा à¤à¤¿ भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥ यथैकात्म्यानुभावानां विकल्परà¤à¤¿à¤¤à¤ƒ स्वयम् । भूà¤à¤£à¤¾à¤¯à¥à¤§à¤²à¤¿à¤™à¥à¤—ाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् à¤à¤°à¤¿à¤ƒ । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥ विदिक्à¤à¥ दिक्à¤à¥‚र्ध्वमधः समन्ता- दन्तर्बà¤à¤¿à¤°à¥à¤­à¤—वान्नारसिंà¤à¤ƒ । प्रà¤à¤¾à¤ªà¤¯à¤à¤²à¥‹à¤•à¤­à¤¯à¤‚ स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेà¤à¥à¤¯à¤¸à¥à¤¯à¤žà¥à¤œà¤¸à¤¾ येन दंशितोऽसुरयूथपान् ॥ ३५॥ एतद्धारयमाणस्तु यं यं पश्यति चक्à¤à¥à¤à¤¾ । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रà¤à¤¾à¤¦à¤¿à¤­à¥à¤¯à¥‹ व्याघ्रादिभ्यश्च कर्à¤à¤¿à¤šà¤¿à¤¤à¥ ॥ ३७॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जà¤à¥Œ स मरुधन्वनि ॥ ३८॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्à¤à¤¯à¤ƒ ॥ ३९ ॥ गगनान्न्यपतत्सद्यः सविमानो à¤à¥à¤¯à¤µà¤¾à¤•à¥à¤¶à¤¿à¤°à¤¾à¤ƒ । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥ श्रीशुक उवाच । य इदं श‍ृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्à¤à¥à¤®à¥€à¤‚ बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥ ॥ इति श्रीमद्भागवत मà¤à¤¾à¤ªà¥à¤°à¤¾à¤£à¥‡ पारमà¤à¤‚स्यां संà¤à¤¿à¤¤à¤¾à¤¯à¤¾à¤‚ à¤à¤à¥à¤ à¤¸à¥à¤•à¤¨à¥à¤§à¥‡ नारायणवर्म कथनं नामाà¤à¥à¤Ÿà¤®à¥‹à¤½à¤§à¥à¤¯à¤¾à¤¯à¤ƒ ॥

Narayana Kavacham

Invocation ॐ श्रीगणेशाय नमः । ॐ नमो नारायणाय । अङ्गन्यासः – ॐ ॐ नमः पादयोः । ॐ नं नमः जानुनोः । ॐ मों नमः ऊर्वोः । ॐ नां नमः उदरे । ॐ रां नमः हृदि । ॐ यं नमः उरसि । ॐ णां नमः मुखे । ॐ यं नमः शिरसि ॥ करन्यासः ॐ ॐ नमः दक्षिणतर्जन्याम् । ॐ नं नमः दक्षिणमध्यमायाम् । ॐ मों नमः दक्षिणानामिकायाम् । ॐ भं नमः दक्षिणकनिष्ठिकायाम् । ॐ गं नमः वामकनिष्ठिकायाम् । ॐ वं नमः वामानामिकायाम् । ॐ तें नमः वाममध्यमायाम् । ॐ वां नमः वामतर्जन्याम् । ॐ सुं नमः दक्षिणांगुष्ठोर्ध्वपर्वणि । ॐ दें नमः दक्षिणांगुष्ठाय पर्वणि । ॐ वां नमः वामांगुष्ठोर्ध्वपर्वणि । ॐ यं नमः वामांगुष्ठाय पर्वणि ॥ विष्णुषडक्षरन्यासः ॐ ॐ नमः हृदये । ॐ विं नमः मूर्धनि । ॐ षं नमः भ्रुवोर्मध्ये । ॐ णं नमः शिखायाम् । ॐ वें नमः नेत्रयोः । ॐ नं नमः सर्वसन्धिषु । ॐ मः अस्त्राय फट् प्राच्याम् । ॐ मः अस्त्राय फट् आग्नेयाम् । ॐ मः अस्त्राय फट् दक्षिणस्याम् । ॐ मः अस्त्राय फट् नैरृत्ये । ॐ मः अस्त्राय फट् प्रतीच्याम् । ॐ मः अस्त्राय फट् वायव्ये । ॐ मः अस्त्राय फट् उदीच्याम् । ॐ मः अस्त्राय फट् ऐशान्याम् । ॐ मः अस्त्राय फट् ऊर्ध्वायाम् । ॐ मः अस्त्राय फट् अधरायाम् ॥ Narayana Kavacham अथ श्रीनारायणकवचम् । राजोवाच । यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥ श्रीशुक उवाच । वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः श‍ृणु ॥ ३॥ विश्वरूप उवाच । धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥ नारायणमयं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥ मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥ करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठ पर्वसु ॥ ७॥ न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥ वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥ सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् । ॐ विष्णवे नम इति ॥ १०॥ आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥ NARAYANA KAVACHAM ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप- पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥ जलेषु मां रक्षतु मत्स्यमूर्ति- र्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥ दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥ रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥ मामुग्रधर्मादखिलात्प्रमादा- न्नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥ सनत्कुमारोऽवतु कामदेवा- द्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥ धन्वन्तरिर्भगवान्पात्वपथ्या- द्द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताञ्ज्जनान्ता- द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥ द्वैपायनो भगवानप्रबोधा- द्बुद्धस्तु पाखण्डगणप्रमादात् । कल्किः कलेः कालमलात्प्रपातु धर्मावनायोरुकृतावतारः ॥ १९॥ मां केशवो गदया प्रातरव्या- द्गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्ति- र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥ देवोऽपराह्ने मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥ २१॥ श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ २३॥ गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कूष्माण्डवैनायकयक्षरक्षो- भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥ त्वं यातुधान प्रमथप्रेतमातृ- पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥ त्वं तिग्मधारासिवरारिसैन्य- मीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥ यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च ॥ २७॥ सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥ सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥ यथा हि भगवानेव वस्तुतः सदसच्च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥ यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥ विदिक्षु दिक्षूर्ध्वमधः समन्ता- दन्तर्बहिर्भगवान्नारसिंहः । प्रहापयँलोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥ एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥ न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥ गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः । स वालखिल्यवचनादस्थीन्यादाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥ श्रीशुक उवाच । य इदं श‍ृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥ ॥ इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारायणवर्म कथनं नामाष्टमोऽध्यायः ॥