Loading...

Transliteration (IAST)

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते | सम्प्राप्ते सन्निà¤à¤¿à¤¤à¥‡ काले नà¤à¤¿ नà¤à¤¿ रक्à¤à¤¤à¤¿ डुक्रिङ्करणे ‖ 1 ‖ मूढ जà¤à¥€à¤à¤¿ धनागमतृà¤à¥à¤£à¤¾à¤‚ कुरु सद्बुद्धिम् मनसि वितृà¤à¥à¤£à¤¾à¤®à¥ | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 2 ‖ यावद्-वित्तोपार्जन सक्तः तावन्-निजपरिवारो रक्तः | पश्चाज्जीवति जर्जर देà¤à¥‡ वार्तां कोऽपि न पृच्छति गेà¤à¥‡ ‖ 5 ‖ यावत्-पवनो निवसति देà¤à¥‡ तावत्-पृच्छति कुशलं गेà¤à¥‡ | गतवति वायौ देà¤à¤¾à¤ªà¤¾à¤¯à¥‡ भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖ मा कुरु धनजन यौवन गर्वं à¤à¤°à¤¤à¤¿ निमेà¤à¤¾à¤¤à¥-कालः सर्वम् | मायामयमिदम्-अखिलं à¤à¤¿à¤¤à¥à¤µà¤¾ ब्रà¤à¥à¤®à¤ªà¤¦à¤‚ त्वं प्रविश विदित्वा ‖ 11 ‖ सुरमन्दिर तरु मूल निवासः शय्या भूतलम्-अजिनं वासः | सर्व परिग्रठभोगत्यागः कस्य सुखं न करोति विरागः ‖ 19 ‖ भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता | सकृदपि येन मुरारी समर्चा क्रियते तस्य यमेन न चर्चा ‖ 21 ‖ पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् | इठसंसारे बà¤à¥ दुस्तारे कृपयाऽपारे पाà¤à¤¿ मुरारे ‖ 22 ‖ गेयं गीता नाम सà¤à¤¸à¥à¤°à¤‚ ध्येयं श्रीपति रूपम्-अजस्रम् | नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ‖ 28 ‖ अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लेशः सत्यम् | पुत्रादपि धनभाजां भीतिः सर्वत्रैà¤à¤¾ विà¤à¤¿à¤¤à¤¾ रीतिः ‖ 30 ‖ गुरु चरणाम्भुज निर्भरभक्तः संसाराद्-अचिराद्-भव मुक्तः | सेन्दिय मानस नियमादेवं द्रक्à¤à¥à¤¯à¤¸à¤¿ निज à¤à¥ƒà¤¦à¤¯à¤¸à¥à¤¥à¤‚ देवम् ‖ 32 ‖

Bhaja Govindam Popular

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते | सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 2 ‖ यावद्-वित्तोपार्जन सक्तः तावन्-निजपरिवारो रक्तः | पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖ यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे | गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖ मा कुरु धनजन यौवन गर्वं हरति निमेषात्-कालः सर्वम् | मायामयमिदम्-अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖ सुरमन्दिर तरु मूल निवासः शय्या भूतलम्-अजिनं वासः | सर्व परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः ‖ 19 ‖ भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता | सकृदपि येन मुरारी समर्चा क्रियते तस्य यमेन न चर्चा ‖ 21 ‖ पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् | इह संसारे बहु दुस्तारे कृपयाऽपारे पाहि मुरारे ‖ 22 ‖ गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपम्-अजस्रम् | नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ‖ 28 ‖ अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लेशः सत्यम् | पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ‖ 30 ‖ गुरु चरणाम्भुज निर्भरभक्तः संसाराद्-अचिराद्-भव मुक्तः | सेन्दिय मानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖