Loading...

Transliteration (IAST)

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥२॥ लोà¤à¤¿à¤¤à¤‚ रथमारूढं सर्वलोकपितामà¤à¤®à¥ । मà¤à¤¾à¤ªà¤¾à¤ªà¤à¤°à¤‚ देवं तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥३॥ त्रैगुण्यं च मà¤à¤¾à¤¶à¥‚रं ब्रà¤à¥à¤®à¤µà¤¿à¤à¥à¤£à¥à¤®à¤à¥‡à¤¶à¥à¤µà¤°à¤®à¥ । मà¤à¤¾à¤ªà¤¾à¤ªà¤à¤°à¤‚ देवं तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥४॥ बृंà¤à¤¿à¤¤à¤‚ तेजःपुञ्जं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥५॥ बन्धुकपुà¤à¥à¤ªà¤¸à¤™à¥à¤•à¤¾à¤¶à¤‚ à¤à¤¾à¤°à¤•à¥à¤£à¥à¤¡à¤²à¤­à¥‚à¤à¤¿à¤¤à¤®à¥ । एकचक्रधरं देवं तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥६॥ तं सूर्यं जगत्कर्तारं मà¤à¤¾à¤¤à¥‡à¤œà¤ƒ प्रदीपनम् । मà¤à¤¾à¤ªà¤¾à¤ªà¤à¤°à¤‚ देवं तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥७॥ तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्à¤à¤¦à¤®à¥ । मà¤à¤¾à¤ªà¤¾à¤ªà¤à¤°à¤‚ देवं तं सूर्यं प्रणमाम्यà¤à¤®à¥ ॥८॥

Surya Ashtakam

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥ लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥ त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥ बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥ बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् । एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥ तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥ तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥