Loading...

Transliteration (IAST)

ॐ यश्छन्द’सामृà¤à¤­à¥‹ विश्वरू’पः | छन्दोभ्योऽध्यमृता”थ्सम्बभूव’ | स मेन्द्रो’ मेधया” स्पृणोतु | अमृत’स्य देवधार’णो भूयासम् | शरी’रं मे विच’र्à¤à¤£à¤®à¥ | जिà¤à¥à¤µà¤¾ मे मधु’मत्तमा | कर्णा”भ्यां भूरिविश्रु’वम् | ब्रà¤à¥à¤®’णः कोशो’ऽसि मेधया पि’à¤à¤¿à¤¤à¤ƒ | श्रुतं मे’ गोपाय ‖ ॐ शान्तिः शान्तिः शान्तिः’ ‖ ॐ मेधादेवी जुà¤à¤®à¤¾’णा न आगा”द्विश्वाची’ भद्रा सु’मनस्य मा’ना | त्वया जुà¤à¥à¤Ÿà¤¾’ नुदमा’ना दुरुक्ता”न् बृà¤à¤¦à¥à¤µ’देम विदथे’ सुवीरा”ः | त्वया जुà¤à¥à¤Ÿ’ ऋà¤à¤¿à¤°à¥à¤­’वति देवि त्वया ब्रà¤à¥à¤®à¤¾’ऽऽगतश्री’रुत त्वया” | त्वया जुà¤à¥à¤Ÿ’श्चित्रं वि’न्दते वसु सा नो’ जुà¤à¤¸à¥à¤µ द्रवि’णो न मेधे ‖ मेधां म इन्द्रो’ ददातु मेधां देवी सर’स्वती | मेधां मे’ अश्विना’वुभा-वाध’त्तां पुà¤à¥à¤•’रस्रजा | अप्सरासु’ च या मेधा गं’धर्वेà¤à¥’ च यन्मनः’ | दैवीं” मेधा सर’स्वती सा मां” मेधा सुरभि’र्जुà¤à¤¤à¤¾à¤—् स्वाà¤à¤¾” ‖ आमां” मेधा सुरभि’र्विश्वरू’पा à¤à¤¿à¤°’ण्यवर्णा जग’ती जगम्या | ऊर्ज’स्वती पय’सा पिन्व’माना सा मां” मेधा सुप्रती’का जुà¤à¤¨à¥à¤¤à¤¾à¤®à¥ ‖ मयि’ मेधां मयि’ प्रजां मय्यग्निस्तेजो’ दधातु मयि’ मेधां मयि’ प्रजां मयीन्द्र’ इंद्रियं द’धातु मयि’ मेधां मयि’ प्रजां मयि सूर्यो भ्राजो’ दधातु ‖ ॐ à¤à¤‚स à¤à¤‚साय’ विद्मà¤à¥‡’ परमà¤à¤‚साय’ धीमà¤à¤¿ | तन्नो’ à¤à¤‚सः प्रचोदया”त् ‖ ॐ शान्तिः शान्तिः शान्तिः’ ‖

Medha Suktam

ॐ यश्छन्द’सामृषभो विश्वरू’पः | छन्दोभ्योऽध्यमृता”थ्सम्बभूव’ | स मेन्द्रो’ मेधया” स्पृणोतु | अमृत’स्य देवधार’णो भूयासम् | शरी’रं मे विच’र्षणम् | जिह्वा मे मधु’मत्तमा | कर्णा”भ्यां भूरिविश्रु’वम् | ब्रह्म’णः कोशो’ऽसि मेधया पि’हितः | श्रुतं मे’ गोपाय ‖ ॐ शान्तिः शान्तिः शान्तिः’ ‖ ॐ मेधादेवी जुषमा’णा न आगा”द्विश्वाची’ भद्रा सु’मनस्य मा’ना | त्वया जुष्टा’ नुदमा’ना दुरुक्ता”न् बृहद्व’देम विदथे’ सुवीरा”ः | त्वया जुष्ट’ ऋषिर्भ’वति देवि त्वया ब्रह्मा’ऽऽगतश्री’रुत त्वया” | त्वया जुष्ट’श्चित्रं वि’न्दते वसु सा नो’ जुषस्व द्रवि’णो न मेधे ‖ मेधां म इन्द्रो’ ददातु मेधां देवी सर’स्वती | मेधां मे’ अश्विना’वुभा-वाध’त्तां पुष्क’रस्रजा | अप्सरासु’ च या मेधा गं’धर्वेषु’ च यन्मनः’ | दैवीं” मेधा सर’स्वती सा मां” मेधा सुरभि’र्जुषताग् स्वाहा” ‖ आमां” मेधा सुरभि’र्विश्वरू’पा हिर’ण्यवर्णा जग’ती जगम्या | ऊर्ज’स्वती पय’सा पिन्व’माना सा मां” मेधा सुप्रती’का जुषन्ताम् ‖ मयि’ मेधां मयि’ प्रजां मय्यग्निस्तेजो’ दधातु मयि’ मेधां मयि’ प्रजां मयीन्द्र’ इंद्रियं द’धातु मयि’ मेधां मयि’ प्रजां मयि सूर्यो भ्राजो’ दधातु ‖ ॐ हंस हंसाय’ विद्महे’ परमहंसाय’ धीमहि | तन्नो’ हंसः प्रचोदया”त् ‖ ॐ शान्तिः शान्तिः शान्तिः’ ‖