Loading...

Transliteration (IAST)

ādideva namastubhyaṃ prasīda mama bhāskara . divākara namastubhyaṃ prabhākara namo'stu te ..1.. saptāśvarathamārūḍhaṃ pracaṇḍaṃ kaśyapātmajam . śvetapadmadharaṃ devaṃ taṃ sūryaṃ praṇamāmyaham ..2.. lohitaṃ rathamārūḍhaṃ sarvalokapitāmaham . mahāpāpaharaṃ devaṃ taṃ sūryaṃ praṇamāmyaham ..3.. traiguṇyaṃ ca mahāśūraṃ brahmaviṣṇumaheśvaram . mahāpāpaharaṃ devaṃ taṃ sūryaṃ praṇamāmyaham ..4.. bṛṃhitaṃ tejaḥpuñjaṃ ca vāyumākāśameva ca . prabhuṃ ca sarvalokānāṃ taṃ sūryaṃ praṇamāmyaham ..5.. bandhukapuṣpasaṅkāśaṃ hārakuṇḍalabhūṣitam . ekacakradharaṃ devaṃ taṃ sūryaṃ praṇamāmyaham ..6.. taṃ sūryaṃ jagatkartāraṃ mahātejaḥ pradīpanam . mahāpāpaharaṃ devaṃ taṃ sūryaṃ praṇamāmyaham ..7.. taṃ sūryaṃ jagatāṃ nāthaṃ jñānavijñānamokṣadam . mahāpāpaharaṃ devaṃ taṃ sūryaṃ praṇamāmyaham ..8..

Surya Ashtakam

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥ लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥ त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥ बृंहितं तेजःपुञ्जं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥ बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् । एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥ तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥ तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥