नमस्ते शारदे देवि काश्मीरपुरवासिनि।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥१॥
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥२॥
नमामि यामिनी नाथलेखालङ्कृतकुन्तलाम्।
भवानी भवसन्तापनिर्वापणसुधानदीम्॥३॥
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः।
वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ॥४॥
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥५॥
यया विना जगत्सर्व शश्वजीवन्मृतं भवेत्।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः॥६॥
यया विना जगत्सर्वं मृकमुन्मत्तवत्सदा।
या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥७॥