Loading...

Transliteration (IAST)

या कुन्देन्दु-तुà¤à¤¾à¤°à¤à¤¾à¤°-धवला या शुभ्रवस्त्रान्विता या वीणा-वरदण्ड-मण्डितकरा या श्वेत-पद्मासना। या ब्रà¤à¥à¤®à¤¾à¤šà¥à¤¯à¥à¤¤à¤¶à¤™à¥à¤•à¤°-प्रभृतिभिः देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेà¤-जाड्यापà¤à¤¾ ॥१॥ दोर्भिर्युक्ता चतुर्भिः स्फटिक-मणिमयीम-अक्à¤à¤®à¤¾à¤²à¤¾à¤‚ दधाना à¤à¤¸à¥à¤¤à¥‡à¤¨à¥ˆà¤•à¥‡à¤¨ पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्ख-स्फटिकमणिनिभा भासमानासमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥ सुरासुर-सेवित-पादपङ्कजा करे विराजत्-कमनीय-पुस्तका। विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥३॥ सरस्वती सरसिज-केसर-प्रभा तपस्विनी सित-कमलासनप्रिया। घनस्तनी कमलविलोल-लोचना मनस्विनी भवतु वरप्रसादिनी ॥४॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिà¤à¥à¤¯à¤¾à¤®à¤¿ सिद्धिर्भवतु मे सदा ॥५॥ सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥ नित्यानन्दे निराधारे निà¤à¥à¤•à¤²à¤¾à¤¯à¥ˆ नमो नमः । विद्याधरे विशालाक्à¤à¤¿ शूद्धज्ञाने नमो नमः ॥७॥ शुद्धस्फटिकरूपायै सूक्à¤à¥à¤®à¤°à¥‚पे नमो नमः । शब्दब्रà¤à¥à¤®à¤¿ चतुर्à¤à¤¸à¥à¤¤à¥‡ सर्वसिद्ध्यै नमो नमः ॥८॥ मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥ मनो मणिमà¤à¤¾à¤¯à¥‹à¤—े वागीश्वरि नमो नमः । वाग्भ्यै वरदà¤à¤¸à¥à¤¤à¤¾à¤¯à¥ˆ वरदायै नमो नमः ॥१०॥ वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोà¤à¤µà¤¿à¤µà¤°à¥à¤œà¤¿à¤¨à¥à¤¯à¥ˆ गुणदीप्त्यै नमो नमः ॥११॥ सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥ योगानार्य उमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥ अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥ अणुरूपे मà¤à¤¾à¤°à¥‚पे विश्वरूपे नमो नमः । अणिमाद्यà¤à¥à¤Ÿà¤¸à¤¿à¤¦à¥à¤§à¥à¤¯à¤¾à¤¯à¥ˆ आनन्दायै नमो नमः ॥१५॥ ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥१६॥ पद्मदा पद्मवंशा च पद्मरूपे नमो नमः । परमेà¤à¥à¤ à¥à¤¯à¥ˆ परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥ मà¤à¤¾à¤¦à¥‡à¤µà¥à¤¯à¥ˆ मà¤à¤¾à¤•à¤¾à¤²à¥à¤¯à¥ˆ मà¤à¤¾à¤²à¤•à¥à¤à¥à¤®à¥à¤¯à¥ˆ नमो नमः । ब्रà¤à¥à¤®à¤µà¤¿à¤à¥à¤£à¥à¤¶à¤¿à¤µà¤¾à¤¯à¥ˆ च ब्रà¤à¥à¤®à¤¨à¤¾à¤°à¥à¤¯à¥ˆ नमो नमः ॥१८॥ कमलाकरपुà¤à¥à¤ªà¤¾ च कामरूपे नमो नमः । कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥ सायं प्रातः पठेन्नित्यं à¤à¤£à¥à¤®à¤¾à¤¸à¤¾à¤¤à¥ सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥ इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥२१॥ इति श्री अगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

Sarasvati Stotram

या कुन्देन्दु-तुषारहार-धवला या शुभ्रवस्त्रान्विता या वीणा-वरदण्ड-मण्डितकरा या श्वेत-पद्मासना। या ब्रह्माच्युतशङ्कर-प्रभृतिभिः देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेष-जाड्यापहा ॥१॥ दोर्भिर्युक्ता चतुर्भिः स्फटिक-मणिमयीम-अक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्ख-स्फटिकमणिनिभा भासमानासमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥ सुरासुर-सेवित-पादपङ्कजा करे विराजत्-कमनीय-पुस्तका। विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥३॥ सरस्वती सरसिज-केसर-प्रभा तपस्विनी सित-कमलासनप्रिया। घनस्तनी कमलविलोल-लोचना मनस्विनी भवतु वरप्रसादिनी ॥४॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥ सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥ नित्यानन्दे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शूद्धज्ञाने नमो नमः ॥७॥ शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥ मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥ मनो मणिमहायोगे वागीश्वरि नमो नमः । वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥१०॥ वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥११॥ सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥ योगानार्य उमादेव्यै योगानन्दे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥ अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥ अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः ॥१५॥ ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥१६॥ पद्मदा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥ महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥१८॥ कमलाकरपुष्पा च कामरूपे नमो नमः । कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥ सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥ इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥२१॥ इति श्री अगस्त्यमुनिप्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥