Loading...

Transliteration (IAST)

आनन्दरूपे निजबोधरूपे ब्रà¤à¥à¤®à¤¸à¥à¤µà¤°à¥‚पे श्रुतिमूर्तिरूपे । शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥१॥ कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुकेले । दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले रमतां मनो मे ॥२॥ लक्à¤à¥à¤®à¥€à¤¨à¤¿à¤µà¤¾à¤¸à¥‡ जगतां निवासे à¤à¥ƒà¤¤à¥à¤ªà¤¦à¥à¤®à¤µà¤¾à¤¸à¥‡ रविबिम्बवासे । कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतां मनो मे ॥३॥ ब्रà¤à¥à¤®à¤¾à¤¦à¤¿à¤µà¤¨à¥à¤¦à¥à¤¯à¥‡ जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये । व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्ये रमतां मनो मे ॥४॥ ब्रà¤à¥à¤®à¤¾à¤§à¤¿à¤°à¤¾à¤œà¥‡ गरुडाधिराजे वैकुण्ठराजे सुरराजराजे । त्रैलोक्यराजेऽखिललोकराजे श्रीरङ्गराजे रमतां मनो मे ॥५॥ अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रे ससमुद्रनिद्रे । श्रितैकभद्रे जगदेकनिद्रे श्रीरङ्गभद्रे रमतां मनो मे ॥६॥ सचित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायी कमलाङ्कशायी । क्à¤à¥€à¤°à¤¾à¤¬à¥à¤§à¤¿à¤¶à¤¾à¤¯à¥€ वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥७॥ इदं à¤à¤¿ रङ्गं त्यजतामिà¤à¤¾à¤™à¥à¤—ं पुनर्न चाङ्गं यदि चाङ्गमेति । पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं याने विà¤à¤™à¥à¤—ं शयने भुजङ्गम् ॥८॥ रङ्गनाथाà¤à¥à¤Ÿà¤•à¤®à¥à¤ªà¥à¤£à¥à¤¯à¤‚ प्रातरुत्थाय यः पठेत् । सर्वान् कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥९॥

Ranganatha Ashtakam

आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे । शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥१॥ कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुकेले । दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले रमतां मनो मे ॥२॥ लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतां मनो मे ॥३॥ ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये । व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्ये रमतां मनो मे ॥४॥ ब्रह्माधिराजे गरुडाधिराजे वैकुण्ठराजे सुरराजराजे । त्रैलोक्यराजेऽखिललोकराजे श्रीरङ्गराजे रमतां मनो मे ॥५॥ अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रे ससमुद्रनिद्रे । श्रितैकभद्रे जगदेकनिद्रे श्रीरङ्गभद्रे रमतां मनो मे ॥६॥ सचित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायी कमलाङ्कशायी । क्षीराब्धिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥७॥ इदं हि रङ्गं त्यजतामिहाङ्गं पुनर्न चाङ्गं यदि चाङ्गमेति । पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं याने विहङ्गं शयने भुजङ्गम् ॥८॥ रङ्गनाथाष्टकम्पुण्यं प्रातरुत्थाय यः पठेत् । सर्वान् कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥९॥