न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
विभ्राजते तद्यतयो विशन्ति ॥
ॐ वेदान्तविज्ञानसुनिश्चितार्थाः
सन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले
परामृतात् परिमुच्यन्ति सर्वे ॥
दहं विपापं परमेश्मभूतं
यत्पुण्डरीकं पुरमध्यसग्म्स्थम् ।
तत्रापि दहं गगनं विशोक
तस्मिन् यदन्तस्तदुपासितव्यम् ॥
यो वेदादौ स्वरः प्रोक्तो
वेदान्ते च प्रतिष्ठितः।
तस्य प्रकृतिलीनस्य
यः परः स महेश्वरः ॥