अगजानन-पद्माकं गजाननम्-अहर्निशम्।
अनेकदंतं भक्तानाम् एकदन्तम्-उपास्महे ॥१॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्व-विघ्नोपशान्तये ॥२॥
वक्रतुण्ड महाकाय कोटिसूर्य-समप्रभ ।
अविघ्नं कुरु मे देव सर्व-कार्येषु सर्वदा ॥३॥
गजाननं भूत-गणाधिसेवितं
कपित्थ-जम्बू-फलसार-भक्षकम्। जलगाकन
उमासुतं शोकविनाश-कारणं
नमामि विघ्नेश्वर-पाद-पङ्कजम्॥४॥