भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते |
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖
मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् |
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ‖ 2 ‖
यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः |
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖
यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे |
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖
मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् |
मायामयमिदम्-अखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖
सुरमन्दिर तरु मूल निवासः
शय्या भूतलम्-अजिनं वासः |
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः ‖ 19 ‖
भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता |
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा ‖ 21 ‖
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् |
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे ‖ 22 ‖
गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपम्-अजस्रम् |
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ‖ 28 ‖
अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् |
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ‖ 30 ‖
गुरु चरणाम्भुज निर्भरभक्तः
संसाराद्-अचिराद्-भव मुक्तः |
सेन्दिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖