Sri Rudram – Laghunyasam – With Meaning (word-by-word and overall)
The word Laghunyasam, meaning ‘brief invocation’ is a combination of two Sanskrit terms: Laghu (लघु) – meaning “short,” “concise,” or “brief.” Nyasam (न्यास) – meaning “placement” or “dedication,” often referring to the mental assignment of different parts of the body to different deities in ritualistic worship.
Laghunyasam is a preparatory Vedic chant recited before Sri Rudram to invoke inner purification and align the devotee’s body, mind, and soul with divine energies. It focuses on the identification of different parts of the body with various deities and cosmic elements, sanctifying the individual as a vessel of divine power. The chant calls upon the five elements (earth, water, fire, air, and space), Rudra’s divine forms, and Shiva’s presence in all directions, purifying the devotee on multiple levels. The Laghunyasam is meant to prepare the chanter for the more intense worship that follows in Sri Rudram, invoking both physical and spiritual readiness to fully absorb Shiva’s grace and blessings.
More information on the Laghunyasam can be found at the end of this page.
Sri Rudram Links on our site
Sri Rudram – Namakam – Chanting
Sri Rudram – Namakam – Translation & Meaning
Sri Rudram – Chamakam – Chanting
Sri Rudram – Chamakam – Translation & Meaning
Sri Rudram – Laghunyasam – Chanting
Sri Rudram – Laghunyasam – Translation & Meaning
॥ लघुन्यासः ॥
ॐ अथात्मानꣳ शिवात्मानग् श्रीरुद्ररूपं ध्यायेत् ॥
शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् । गङ्गाधरं दशभुजं
सर्वाभरणभूषितम् ॥ नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ कमण्डल्वक्षसूत्राणां
धारिणं शूलपाणिनम् । ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम् ॥
वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् । अमृतेनाप्लुतं शान्तं
दिव्यभोगसमन्वितम् ॥ दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् । नित्यं
च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥ सर्वव्यापिनमीशानं रुद्रं
वै विश्वरूपिणम् । एवं ध्यात्वा द्विजसम्यक् ततो यजनमारभेत् ॥
ॐ प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु ।
हृदये शिवस्तिष्ठतु । कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती
तिष्ठतु । नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ
तिष्ठेताम् । कर्णयोरश्विनौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु ।
मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायां
वामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु ।
पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिः
सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वा देवता
यथास्थानं तिष्ठन्तु । माꣳ रक्षन्तु । सर्वान् महाजनान् रक्षन्तु ॥
ॐ अग्निर्मे वाचि श्रितः । वाग्धृदये । हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि । वायुर्मे प्राणे श्रितः ।
प्राणो हृदये । हृदयं मयि । अहममृते । अमृतं
ब्रह्मणि । सूर्यो मे चक्षुषि श्रितः । चक्षुर्हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
चन्द्रमा मे मनसि श्रितः । मनो हृदये । हृदयं
मयि । अहममृते । अमृतं ब्रह्मणि । दिशो मे
श्रोत्रे श्रिताः । श्रोत्रꣳ हृदये । हृदयं मयि ।
अहममृते । अमृतं ब्रह्मणि । आपो मे रेतसि श्रिताः ।
रेतो हृदये । हृदयं मयि । अहममृते । अमृतं
ब्रह्मणि । पृथिवी मे शरीरे श्रिता । शरीरग्ं हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
ओषधिवनस्पतयो मे लोमसु श्रिताः । लोमानि
हृदये । हृदयं मयि । अहममृते । अमृतं
ब्रह्मणि । इन्द्रो मे बले श्रितः । बलꣳ हृदये ।
हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं
मयि । अहममृते । अमृतं ब्रह्मणि । ईशानो मे मन्यौ
श्रितः । मन्युर्हृदये । हृदयं मयि । अहममृते ।
अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः । आत्मा
हृदये । हृदयं मयि । अहममृते । अमृतं
ब्रह्मणि । पुनर्म आत्मा पुनरायुरागात् । पुनः प्राणः
पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानः ।
अन्तस्तिष्ठत्वमृतस्य गोपाः ॥
अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः, अनुष्टुप् छन्दः,
सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता ।
नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् ।
श्री साम्बसदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॥
अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् ।
निरूढपशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
॥ ध्यानम् ॥
आपाताळनभः स्थलान्तभुवनब्रह्माण्डमाविस्फुर
ज्ज्योतिः स्फाटिकलिङ्गमौळिविलसत्पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्ड हस्ताः ॥
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभेदा
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥
श्री गुरुभ्यो नमः । हरिः ओ३म् ।
ॐ गणानां त्वा गणपतिꣳ हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिस्सीद सादनम् ॥
॥ ॐ श्री महागणपतये नमः ॥
ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च
मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च
मे शयनं च मे सूषा च मे सुदिनं च मे ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ शिवोपासन मन्त्राः ॥
निधनपतये नमः । निधनपतान्तिकाय नमः । ऊर्ध्वाय
नमः । ऊर्ध्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय
नमः । सुवर्णाय नमः । सुर्वर्णलिङ्गाय नमः । दिव्याय नमः ।
दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय
नमः । शर्वलिङ्गाय नमः । शिवाय नमः । शिवलिङ्गाय नमः ।
ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय
नमः । परमाय नमः । परमलिङ्गाय नमः । एतथ्सोमस्य सूर्यस्य
सर्वलिङ्गग्ग् स्थापयति पाणिमन्त्रं पवित्रम् ॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय
नमः ॥ वामदेवाय नमो ज्येष्ठाय नमश्श्रेष्ठाय
नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो
बलविकरणाय नमो बलाय नमो बलप्रमथनाय
नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः
सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ तत्पुरुषाय
विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥
ईशानस्सर्वविद्यानामीश्वरस्सर्व भूतानां
ब्रह्माऽधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु
सदाशिवोम् ॥
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय
उमापतये पशुपतये नमो नमः । ऋतꣳ सत्यं परं ब्रह्म
पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं
विश्वरूपाय वै नमो नमः ॥ सर्वो वै रुद्रस्तस्मै
रुद्राय नमो अस्तु । पुरुषो वै रुद्रस्सन्महो नमो नमः ।
विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं
च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ।
कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वो चेम
शन्तमꣳ हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय
नमो अस्तु ॥
ध्यानम्
आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ॥
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥
Proceed to chanting the Sri Rudram – Namakam