Loading...

Transliteration (IAST)

tridalaṃ triguṇākāraṃ trinĕtraṃ ca triyāyudhaṃ . trijanma pāpasaṃhāram ĕkabilvaṃ śivārpaṇaṃ ..1.. triśākhaiḥ bilvapatraip śca hyacchidraiḥ komalaiḥ śubhaiḥ . śivapūjāṃ kariṣyāmi hyekabilvaṃ śivārpaṇam .. 2.. akhaṇḍa bilvapatreṇa pūjite nandikeśvare . śuddhyanti sarvapāpebhyo hyekabilvaṃ śivārpaṇam ..3.. śāligrāma śilāmekāṃ viprāṇāṃ jātu cārpayet . somayajña mahāpuṇyaṃ ekabilvaṃ śivārpaṇam ..4.. dantikoṭi sahasrāṇī vājapeya śatāni ca . koṭikanyā mahādānaṃ ekabilvaṃ śivārpaṇam ..5.. lakṣmyāstanuta utpannaṃ mahādevasya ca priyam . bilvavṛkṣaṃ prayacchāmi hyekabilvaṃ śivārpaṇam ..6.. darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam . aghorapāpasaṃhāraṃ ekabilvaṃ śivarpaṇam .. 7.. mūlato brahmarūpāya madhyato viṣṇurūpiṇe . agrataḥ śivarūpāya hyekabilvaṃ śivārpaṇam .. 8.. bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhet śivasannidhau . sarvapāpa vinirmuktaḥ śivalokamavāpnuyāt ..

Bilvashtakam

त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं । त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं ॥१॥ त्रिशाखैः बिल्वपत्रैp श्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ २॥ अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥३॥ शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥४॥ दन्तिकोटि सहस्राणी वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥५॥ लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥६॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवर्पणम् ॥ ७॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ ८॥ बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ । सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥