ॐ वाङ् मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविराविर्म एधि ।
वेदस्य म आणीस्थः ।
श्रुतं मे मा प्रहासीः
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु माम् ।
अवतु वक्तारामवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥