षडाधारपङ्केरुहान्तर्विराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडेऽचिदानन्दरूपाम् ॥ १॥
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराजत्
त्रिकोणे निषण्णां ं भजे श्रीभवानीम् ॥२॥
क्वणत्किङ्किणीनूपुरोद्भासिरत्न
प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३॥
सुषोणाम्बराबद्धनीवीविराजन्
महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वली रम्यते रोमराजिं भजेऽहम् ॥ ४॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् ।
भजे दुग्ध पूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५॥
शिरीषप्रसूनोल्लसद्बाहुदण्डैर्-
ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषा
ज्वलद्भिः लसन्तीं भजे श्रीभवानीम् ॥ ६॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा
धरस्मेरवक्त्रारविन्दं सुशंताम्।
सुरत्नावलीहारताटङ्कशोभा
महा सुप्रसन्नां भजे श्रीभवानीम् ॥ ७॥
सुनासापुटं पद्मपत्रायताक्षं
यजन्तः श्रियं दानदक्षं कटाक्षम् ।
ललाटोल्लसद्गन्धकस्तूरिभूषो- ज्ज्वलद्भिः
स्फुरन्तीं भजे श्रीभवानीम् ॥ ८॥
चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां
घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् ।
स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥
स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ।
इति श्रीभवानिस्वरूपं तदेवं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०॥
गणेशाणिमाद्याखिलैः शक्तिवृन्दै-
र्स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरीं त्वा भवानीं
शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥ ११॥
त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप-
स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा ।
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं
सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिताऽसि त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धि-
र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥
श्रुतीनामगम्यं सुवेदागमाद्यैर्-
महिम्नो न जानाति पारं तवेदम् ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥
शरण्ये वरेण्ये सुकारुण्यपूर्णे
हिरण्योदराद्यैरगम्येऽतिपुण्ये ।
भवारण्यभीतं च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥
इमामन्वहं श्रीभवानीभुजङ्ग-
स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै ।
स्वकीयं पदं शाश्वतं चैव सारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥
भवानी भवानी भवानी त्रिवारम्- उदारम् मुदा सर्वदा ये जपन्ति । न शोकम् न मोहम् न पापं न भीतिः कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७॥
इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥