प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंस-गतिं तुरीयम्।
यत्स्वप्न-जागर-सुषुप्तमवैति नित्यं
तद् ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥
प्रातर्भजामि मनसा वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण।
यं नेति नेति वचनैर्निगमा अवोचुः
तं देव-देवमजमच्युतमाहुरग्रयम्॥२॥
प्रातर्नमामि तमसः परमर्कवर्ण शार
पूर्ण सनातनपदं पुरुषोत्तमाख्यम्।
यस्मिन्निदं जगदशेषमशेषमूर्ती
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥
श्लोकत्रयमिदं पुण्यं लोकत्रय-विभूषणम्।
प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥